Home हलन्त्यम् । अदर्शनं लोपः । तस्य लोपः । आदिरन्त्येन सहेता । Sanskrit | Sangya Prakaran | Itsangya Sutras | Sangya | sanskrit grammar | sanskrit vyakran | संज्ञा सूत्र | संस्कृत | संज्ञा प्रकरण | संज्ञा | इत् संज्ञा | संस्कृत व्याकरण Sanskrit | Sangya Prakaran | Itsangya Sutras | Sangya | sanskrit grammar | sanskrit vyakran | संज्ञा सूत्र | संस्कृत | संज्ञा प्रकरण | संज्ञा | इत् संज्ञा | संस्कृत व्याकरण personSky Educare September 26, 2019 0 share | संज्ञा प्रकरण | | Sangya Prakaran | For PDF Join Telegram Channel फ्री वीडियो के लिए "Sky Educare" - YouTube Channel को सब्सक्राइब करें क्र. सूत्रम् प्रकरणम् वृत्तिः 0 अइउण् । ऋऌक् । एओङ् । ऐऔच् । हयवरट् । लँण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् । सञ्ज्ञा इति महेश्वराणि सूत्राणी अणादि सञ्ज्ञार्थानि । एषामन्त्या इतः । हकारादिषु अकार उच्चारणार्थः । लण्मध्ये तु इत्सञ्ज्ञकः । 1 हलन्त्यम् । सञ्ज्ञा उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् । सूत्रेष्वद्ृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र ।। 2 अदर्शनं लोपः । सञ्ज्ञा प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् । 3 तस्य लोपः । सञ्ज्ञा तस्येतो लोपः स्यात् । णादयोऽणाद्यर्थाः । 4 आदिरन्त्येन सहेता । सञ्ज्ञा अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाऽणिति अ इ उ वर्णानां संज्ञा । एवमच् हल् अलित्यादयः ।। 5 ऊकालोऽज्झ्रस्वदीर्घप्लुतः । सञ्ज्ञा उश्च ऊश्च ऊ३श्च वः; वां कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादि भेदेन त्रिधा । 6 उच्चैरुदात्तः । सञ्ज्ञा ताल्वाद्विस्थानेषु ऊर्ध्वभागे निष्पन्नः अच् उदात्तः । 7 नीचैरनुदात्तः । सञ्ज्ञा ताल्वाद्विस्थानेषु अधोभागे निष्पन्नः अच् अनुदात्तः । 8 समाहारः स्वरितः । सञ्ज्ञा स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ।। 9 मुखनासिकावचनोऽनुनासिकः । सञ्ज्ञा मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् – अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ।। 10 तुल्यास्यप्रयत्नं सवर्णम् । सञ्ज्ञा ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । (ऋलृवर्णयोर्मिथः सावण्र्यं वाच्यम्) । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैैतोः कण्ठतालु । ओदौैतोः कण्ठोष्टम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकाऽनुस्वारस्य । यत्नोे द्विधा – आभ्यन्तरो बाह्यश्च । आद्यः पञ्चधा – स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् । ईषद्विवृतमूष्मणाम् । विवृतं स्वराणाम् । ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । बाह्यप्रयत्नस्त्वेकादशधा – विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति । खरो विवाराः श्वासा अघोषाश्च । हशः संवारा नादा घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः । कादयो मावसानाः स्पर्शाः । यणोऽन्तःस्थाः । शल ऊष्माणः । अचः स्वराः । -क-ख इति कखाभ्यां प्रगर्धविसर्गसद्ृशो जिह्वामूलीयः । -प-फ इति पफाभ्यां प्रागर्धविसर्गसद्ृश उपध्मानीयः । अं अः इत्यचः परावनुस्वारविसर्गौ ।। 11 अणुदित् सवर्णस्य चाप्रत्ययः । सञ्ज्ञा प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात् । अत्रैवाण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् – अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रशिंतः । एवं लृकारोऽपि । एचो द्वादशानाम् । अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा । 12 परः सन्निकर्षः संहिता । सञ्ज्ञा वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ।। 13 सुप्तिङन्तं पदम् । सञ्ज्ञा सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ।। 14 हलोऽनन्तराः संयोगः । सञ्ज्ञा अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।। 15 ह्रस्वं लघु । सञ्ज्ञा 16 संयोगे गुरु । सञ्ज्ञा 17 दीर्घं च । सञ्ज्ञा दीर्घं च गुरुसञ्ज्ञं स्यात् । 18 षष्ठी स्थानेयोगा । अच्सन्धिः अनिर्धारित सम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या स्थानं च प्रसङ्गः । 19 तस्मिन्निति निर्दिष्टे पूर्वस्य । अच्सन्धिः सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ।। 20 संहितायाम् । अच्सन्धिः इत्यधिकृत्य । 21 इको यणचि । अच्सन्धिः इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते ।। 22 स्थानेऽन्तरतमः । अच्सन्धिः प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् उपास्य इति जाते ।। 23 अनचि च । अच्सन्धिः अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते ।। 24 झलां जश् झशि । अच्सन्धिः स्पष्टम् । इति पूर्वधकारस्य दकारः ।। 25 संयोगान्तस्य लोपः । अच्सन्धिः संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् ।। 26 अलोऽन्त्यस्य । अच्सन्धिः षष्ठीनिर्दिष्टोऽन्त्यस्याल आदेशः स्यात् । इति यलोपे प्राप्ते – (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्ध्व्ंरिः । धात्त्रंशः । लाकृतिः ।। 27 एचोऽयवायावः । अच्सन्धिः एचः क्रमादय् अव् आय् आव् एते स्युरचि ।। 28 यथासंख्यमनुदेशः समानाम् । अच्सन्धिः समसंबन्धी विधिर्यथासंख्यं स्यात् । हरये । विष्णवे । नायकः । पावकः ।। 29 वान्तो यि प्रत्यये । अच्सन्धिः यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गव्यम् । नाव्यम् । (अध्वपरिमाणे च) । गव्यूतिः ।। 30 अदेङ् गुणः । अच्सन्धिः अत् एङ् च गुणसंज्ञः स्यात् ।। 31 तपरस्तत्कालस्य । अच्सन्धिः तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात् ।। 32 आद्गुणः । अच्सन्धिः अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् । उपेन्द्रः । गङ्गोदकम् ।। 33 उपदेशेऽजनुनासिक इत् । अच्सन्धिः उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ।। 34 उरण् रपरः । अच्सन्धिः ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णर्द्धिः । तवल्कारः ।। 35 लोपः शाकल्यस्य । अच्सन्धिः अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे ।। 36 पूर्वत्रासिद्धम् । अच्सन्धिः सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् । हर इह, हरयिह । विष्ण इह, विष्णविह ।। 37 वृद्धिरादैच् । अच्सन्धिः आदैच्च वृद्धिसंज्ञः स्यात् ।। 38 वृद्धिरेचि । अच्सन्धिः आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।। 39 एत्येधत्यूठ्सु । अच्सन्धिः अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्प्रेदिधत् । (अक्षादूहिन्यामुपसंख्यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्येषु) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णम्, वत्सतरार्णम्, इत्यादि ।। 40 उपसर्गाः क्रियायोगे । अच्सन्धिः प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप – एते प्रादयः ।। 41 भूवादयो धातवः । अच्सन्धिः क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ।। 42 उपसर्गादृति धातौ । अच्सन्धिः अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्राच्र्छति ।। 43 एङि पररूपम् । अच्सन्धिः आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ।। 44 अचोऽन्त्यादि टि । अच्सन्धिः अचां मध्ये योऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात् । (शकन्ध्वादिषु पररूपं वाच्यम्) । तच्च टेः । शकन्धुः । कर्कन्धुः मनीषा । आकृतिगणोऽयम् । मार्त्तण्डः ।। 45 ओमाङोश्च । अच्सन्धिः ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवाया� नमः । शिव एहि ।। 46 अन्तादिवच्च । अच्सन्धिः योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् । शिवेहि ।। 47 अकः सवर्णे दीर्घः । अच्सन्धिः अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । होतॄकारः ।। 48 एङः पदान्तादति । अच्सन्धिः पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ।। 49 सर्वत्र विभाषा गोः । अच्सन्धिः लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते । गोअग्रम्, गोऽग्रम् । एङन्तस्य किम् ? चित्रग्वग्रम् । पदान्ते किम्? गोः ।। 50 अनेकाल्शित्सर्वस्य । अच्सन्धिः इति प्राप्ते ।। 51 ङिच्च । अच्सन्धिः ङिदनेकालप्यन्त्यस्ययैव स्यात् ।। 52 अवङ् स्फोटायनस्य । अच्सन्धिः पदान्ते एङन्तस्य गोरवङ् वाऽचि । गवाग्रम्, गोऽग्रम् । पदान्ते किम् ? गवि ।। 53 इन्द्रे च (नित्यम्) । अच्सन्धिः गोरवङ् स्यादिन्द्रे । गवेन्द्रः ।। 54 दूराद्धूते च । अच्सन्धिः दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा ।। 55 प्लुतप्रगृह्या अचि नित्यम् । अच्सन्धिः एतेऽचि प्रकृत्या स्युः । आगच्छ कृष्ण ३ अत्र गौश्चरति ।। 56 ईदूदेद्द्विवचनं प्रगृह्यम् । अच्सन्धिः ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू ।। 57 अदसो मात् । अच्सन्धिः अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् ? अमुकेऽत्र ।। 58 प्राग्रीश्वरान्निपाताः । अच्सन्धिः 59 चादयोऽसत्त्वे । अच्सन्धिः अद्रव्यार्थाश्चादयो निपाताः स्युः ।। 60 प्रादयः । अच्सन्धिः एतेऽपि तथा ।। 61 निपात एकाजनाङ् । अच्सन्धिः एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात् । इ इन्द्रः । उ उमेशः । ’वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे । आ एवं किल तत् । अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम् ।। 62 ओत् । अच्सन्धिः ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ।। 63 सम्बुद्धौ शाकल्यस्येतावनार्षे । अच्सन्धिः सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति, विष्ण इति, विष्णविति ।। 64 मय उञो वो वा । अच्सन्धिः मयः परस्य उञो वो वाऽचि । किम्वुक्तम्, किमु उक्तम् ।। 65 इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । अच्सन्धिः पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि । ह्रस्वविधिसामथ्र्यान्न स्वरसन्धिः । चक्रि अत्र, चक्रय्त्र । पदान्ता इति किम् ? गौर्यौ -. 66 अचो रहाभ्यां द्वे । अच्सन्धिः अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । गौय्र्यौ । (न समासे) । वाप्यश्वः ।। 67 ऋत्यकः । अच्सन्धिः ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः । पदान्ताः किम् ? आर्छत् ।। 68 स्तोः श्चुना श्चुः । हल् सन्धिः सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । रामश्शेते । रामश्चिनोति । सच्चित् । शाङिर््गञ्जय ।। 69 शात् । हल् सन्धिः शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश्नः । प्रश्नः ।। 70 ष्टुना ष्टुः । हल् सन्धिः स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ।। 71 न पदान्ताट्टोरनाम् । हल् सन्धिः पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् ? ईट्टे । टोः किम् ? सर्पिष्टमम् । (अनाम्नवतिनगरीणामिति वाच्यम्) । षण्णवतिः । षण्णगय्र्यः ।। 72 तोः षि । हल् सन्धिः न ष्टुत्वम् । सन्षष्ठः ।। 73 झलां जशोऽन्ते । हल् सन्धिः पदान्ते झलां जशः स्युः । वागीशः ।। 74 यरोऽनुनासिकेऽनुनासिको वा । हल् सन्धिः यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः, एतद् मुरारिः । (प्रत्यये भाषायां नित्यम्) । तन्मात्रम् । 75 तोर्लि । हल् सन्धिः तवर्गस्य लकारे परे परसवर्णः । तवर्गस्य लकारे परे परसवर्णः । तल्लयः । विद्वाँल्लिखति । नस्यानुनासिको लः । 76 उदः स्थास्तम्भोः पूर्वस्य । हल् सन्धिः उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ।। 77 तस्मादित्युत्तरस्य । हल् सन्धिः पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ।। 78 आदेः परस्य । हल् सन्धिः परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । इति सस्य थः ।। 79 झरो झरि सवर्णे । हल् सन्धिः हलः परस्य झरो वा लोपः सवर्णे झरि ।। 80 खरि च । हल् सन्धिः खरि झलां चरः । इत्युदो दस्य तः । उत्थानम् । उत्तम्भनम् ।। . 81 झयो होऽन्यतरस्याम् । हल् सन्धिः झयः परस्य हस्य वा पूर्वसवर्णः । नादस्य घोषस्य संवारस्य महाप्राणस्य ताद्ृशो वर्गचतुर्थः । वाग्घरिः, वाग्हरिः ।। 82 शश्छोऽटि । हल् सन्धिः झयः परस्य शस्य छो वाऽटि । तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः । तच्छिवः, तच्शिवः । (छत्वममीति वाच्यम्) तच्छ्लोकेन ।। 83 मोऽनुस्वारः । हल् सन्धिः मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे ।। 84 नश्चापदान्तस्य झलि । हल् सन्धिः नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । झलि किम् ? मन्यते ।। 85 अनुस्वारस्य ययि परसवर्णः । हल् सन्धिः स्पष्टम् । शान्तः ।। 86 वा पदान्तस्य । हल् सन्धिः त्वङ्करोषि, त्वं करोषि ।। 87 मो राजि समः क्वौ । हल् सन्धिः िक्वबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ।। 88 हे मपरे वा । हल् सन्धिः मपरे हकारे परे मस्य मो वा । किम् ह्मलयति, किं ह्मलयति । (यवलपरे यवला वा)। किंय्�ँ ह्यः, किं ह्यः । किव्�ँ ह्वलयति, किं ह्वलयति । किल्�ँ ह्लादयति, किं ह्लादयति ।। 89 नपरे नः । हल् सन्धिः नपरे हकारे मस्य नो वा । किन् ह्नुते, किं ह्नुते ।। 90 डः सि धुट् । हल् सन्धिः डात्परस्य सस्य धुड्वा । षट्त्सन्तः, षट् सन्तः ।। 91 आद्यन्तौ टकितौ । हल् सन्धिः टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ।। 92 नश्च । हल् सन्धिः नान्तात्परस्य सस्य धुड्वा । सन्त्सः, सन्सः ।। 93 ङ्णोः कुक्टुक् शरि । हल् सन्धिः वा स्तः । (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्) । प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः । सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः ।। 94 शि तुक् । हल् सन्धिः पदान्तस्य नस्य शे परे तुग्वा । सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः ।। 95 ङमो ह्रस्वादचि ङमुण्नित्यम् । हल् सन्धिः ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ।। 96 समः सुटि । हल् सन्धिः समो रुः सुटि ।। 97 अत्रानुनासिकः पूर्वस्य तु वा । हल् सन्धिः अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा ।। 98 अनुनासिकात् परोऽनुस्वारः । हल् सन्धिः अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः ।। 99 खरवसानयोर्विसर्जनीयः । हल् सन्धिः खरि अवसाने च पदान्तसाय रेफस्य विसर्गः । (संपुंकानां सो वक्तव्यः) । सँस्स्कर्ता, संस्स्कर्ता ।। 100 पुमः खय्यम्परे । हल् सन्धिः अम्परे खयि पुमो रुः । पुँस्कोकिलः, पुंस्कोकिलः ।। 101 नश्छव्यप्रशान् । हल् सन्धिः अम्परे छवि नान्तस्य पदस्यरुः; न तु प्रशान्शब्दस्य ।। 102 विसर्जनीयस्य सः । हल् सन्धिः खरि । चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व । अप्रशान् किम् ? प्रशान्तनोति । पदस्येति किम् ? हन्ति ।। 103 नॄन् पे । हल् सन्धिः नॄनित्यस्य रुर्वा पे ।। 104 कुप्वोः XकXपौ च । हल् सन्धिः कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः । नॄँ ए पाहि, नॄः�ँ ए पाहि, नॄः�ंपाहि । नॄन्पाहि ।। 105 तस्य परमाम्रेडितम् । हल् सन्धिः द्विरुक्तस्य परमाम्रेडितम् स्यात् ।। 106 कानाम्रेडिते । हल् सन्धिः कान्नकारस्य रुः स्यादाम्रेडिते । काँस्कान्, कांस्कान् ।। 107 छे च । हल् सन्धिः ह्रस्वस्य छे तुक् । शिवच्छाया ।। 108 पदान्ताद्वा । हल् सन्धिः दीर्घात् पदान्तात् छे तुग्वा । ल�मीच्छाया, ल�मी छाया ।। 109 विसर्जनीयस्य सः । विसर्गसन्धिः खरि । विष्णुस्त्राता ।। 110 वा शरि । विसर्गसन्धिः शरि विसर्गस्य विसर्गो वा । हरिः शेते, हरिश्शेते ।। 111 ससजुषो रुः । विसर्गसन्धिः पदान्तस्य सस्य सजुषश्च रुः स्यात् ।। 112 अतो रोरप्लुतादप्लुते । विसर्गसन्धिः अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । शिवोऽच्र्यः ।। 113 हशि च । विसर्गसन्धिः तथा । शिवो वन्द्यः ।। 114 भोभगोअघोअपूर्वस्य योऽशि । विसर्गसन्धिः एतत्पूर्वस्य रोर्यादेशोऽशि । देवा इह, देवायिह । भोस् भगोस् अघोस् इति सान्ता निपाताः । तेषां रोर्यत्वे कृते ।। 115 हलि सर्वेषाम् । विसर्गसन्धिः भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि । भो देवाः । भगो नमस्ते । अघो याहि ।। 116 रोऽसुपि । विसर्गसन्धिः अह्नो रेफादेशो न तु सुपि । अहरहः । अहर्गणः ।। 117 रो रि । विसर्गसन्धिः रेफस्य रेफे परे लोपः ।। 118 ढ्रलोपे पूर्वस्य दीर्घोऽणः । विसर्गसन्धिः ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः । पुना रमते । हरी रम्यः । शम्भू राजते । अणः किम् ? तृढः । वृढः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ।। 119 विप्रतिषेधे परं कार्यम् । विसर्गसन्धिः तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ।। 120 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि । विसर्गसन्धिः अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे । एष विष्णुः । स शम्भुः । अकोः किम् ? एषको रुद्रः । अनञ्समासे किम् ? असः शिवः । हलि किम् ? एषोऽत्र ।। 121 सोऽचि लोपे चेत् पादपूरणम् । विसर्गसन्धिः स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूय्र्येत । सेमामवििड्ढ प्रभृतिम् । सैष दाशरथी रामः ।। Tags हलन्त्यम् । अदर्शनं लोपः । तस्य लोपः । आदिरन्त्येन सहेता । Facebook Twitter Whatsapp Newer Older